हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Lakshmi Nrusimha Hrudayam – श्री लक्ष्मीनृसिंह हृदय स्तोत्रम्


अस्य श्री लक्ष्मीनृसिंह हृदय महामन्त्रस्य प्रह्लाद ऋषिः, श्रीलक्ष्मीनृसिंहो देवता, अनुष्टुप् छन्दः, मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥

करन्यासः –
ओं श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।
ओं वज्रनखाय तर्जनीभ्यां नमः ।
ओं महारूपाय मध्यमाभ्यां नमः ।
ओं सर्वतोमुखाय अनामिकाभ्यां नमः ।
ओं भीषणाय कनिष्ठिकाभ्यां नमः ।
ओं वीराय करतल करपृष्ठाभ्यां नमः ।
हृदयन्यासः –
ओं श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।
ओं वज्रनखाय शिरसे स्वाहा ।
ओं महारूपाय शिखायै वषट् ।
ओं सर्वतोमुखाय कवचाय हुम् ।
ओं भीषणाय नेत्रत्रयाय वौषट् ।
ओं वीराय अस्त्राय फट् ॥

अथ ध्यानम् ।
सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं
योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।
महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं
श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ।
श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥

अथ मन्त्रः ।
ओं नमो भगवते नरसिंहाय देवाय नमः ॥

अथ हृदय स्तोत्रम् ।
श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः परं शिवः ।
नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १ ॥

नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः ।
तयोरैक्यं श्रुतिप्रोक्तं यः पश्यति स पश्यति ॥ २ ॥

नृसिंहाद्देवाः जायन्ते लोकाः स्थावरजङ्गमाः ।
नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३ ॥

नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् ।
राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४ ॥

नृसिंहात् परमं नास्ति नृसिंहं कुलदैवतम् ।
नृसिंहभक्ता ये लोके ते ज्ञानिनं इतीरिताः ॥ ५ ॥

विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः ।
न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६ ॥

माहात्म्यं यस्य सर्वेऽपि वदन्ति निगमागमाः ।
नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७ ॥

नृसिंहो जगतां हेतुः बहिर्यायाऽवलम्बनः ।
मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥ ८ ॥

वासुदेवो मयातीतो नारायणसमप्रभ ।
निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९ ॥

सर्वेषां चापि भूतानां हृदयाम्भोजवासकः ।
अतिप्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १० ॥

चराचरस्वरूपी च चराचरनियामकः ।
सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११ ॥

नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः ।
केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२ ॥

नृसिंह परमात्मानं सर्वभूतनिवासिनम् ।
तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३ ॥

सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः ।
नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४ ॥

नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च ।
तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५ ॥

ओङ्कारेभ्यश्च पूतात्मा ओङ्कारैक प्रबोधितः ।
ओङ्कारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६ ॥

नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः ।
तेषां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७ ॥

सकारो जीववाची स्यादिकारः परमेश्वरः ।
हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८ ॥

ओङ्कारजा प्रेतमुक्तिः काश्यां मरणं तथा ।
नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९ ॥

तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् ।
सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २० ॥

सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ ।
श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१ ॥

नृसिंहतापनीयस्य कलां नार्हति षोडशीम् ।
श्रीमन्मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२ ॥

श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे ।
नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३ ॥

नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः ।
सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४ ॥

अश्वमेधसहस्राणि वाजपेय शतानि च ।
काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५ ॥

यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः ।
षण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६ ॥

पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते ।
अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७ ॥

तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् ।
सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८ ॥

नृसिंह स्मरणाल्लोके तारकं भवतारकम् ।
अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९ ॥

नृसिंहमन्त्रराजोऽयं नाविको भाष्यते बुधैः ।
यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३० ॥

नृसिंहमन्त्रराजोऽयं ऋषयः परिकीर्तितः ।
भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१ ॥

नृसिंहमन्त्रराजोऽयं गारुडोमन्त्र उच्यते ।
अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२ ॥

नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः ।
तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३ ॥

नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् ।
नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४ ॥

वेदान्तवनमध्यस्था हरिणी मृग इष्यते ।
नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५ ॥

मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् ।
अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६ ॥

यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् ।
श्रीमन्नृसिंहपादाब्जं नत्वारङ्गप्रवेशिता ॥ ३७ ॥

मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी ।
श्रीमन्नृसिंहपादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८ ॥

मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् ।
श्रीमन्नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४० ॥

मदीयचित्तहंसोऽयं मनोवश्यं न याति मे ।
श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१ ॥

वर्तते ताभुवौ नित्यं रौवहं परियामि वै ।
सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२ ॥

अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम ।
श्रीमन्नृसिंहपादाब्जद्वन्द्वं मे हृदये सदा ॥ ४३ ॥

वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे ।
नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४ ॥

नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः ।
नृसिंहत्वं समाप्नोति नृसिंहः सम्प्रसीदति ॥ ४५ ॥

त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः ।
राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ।
इह लोके शुभान् कामान् परत्र च पराङ्गतिम् ॥ ४७ ॥

इति भविष्योत्तरपुराणे प्रह्लादकथितं श्री लक्ष्मीनृसिंह हृदय स्तोत्रम् ।


Sri Narasimha Stotras – श्री नृसिंह स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.